सामग्री पर जाएँ

स्वामी विवेकानन्दः

विकिसूक्तिः तः
इदं जीवनम् अस्ति ह्रस्वं, जगतः डम्भाचारः अनित्यः । किन्तु ते एव वस्तुतः जीवन्ति ये अन्येषां कृते जीवन्ति । अवशिष्टाः मृतप्रायाः ।
अनन्तशक्तिः, अनन्तोत्साहः, अनन्तसाहसम्, अनन्तसहना यदि स्यात् तर्हि महत्कार्यसिद्धिः शक्या ।
महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्नः दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् ।
मानवस्य अध्ययनं क्रियताम् । मानवः एव सजीवकाव्यम् ।
‘एकैकोऽपि भारतीयः मम सहोदरः । भारतीयता एव मम प्राणाः ।’

स्वामी विवेकानन्दः (१२ जनवरी १८६३ - ४ जुलै १९०२) वेदान्तस्य बोधकः आसीत् । हिन्दुधर्मस्य प्रसिद्धेषु धर्मगुरुषु अन्यतमः ।

अमृतवचनानि

[सम्पाद्यताम्]
महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्नः दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । मस्तिष्कं, मांसपेश्यः, नाड्य:, इत्यादीनि सर्वाणि शरीरस्य अङ्गानि तेन एव विचारेण ओतप्रोतानि स्युः । यावत् एतत् न सिध्यति, तावत् अन्ये विचाराः दूरे तीरे एव तिष्ठन्तु नाम । सफलतायाः एषः एव राजमार्गः ।


यदा अहम् इतिहासे दृष्टिं पातयामि, तदा प्रतीयते यत् विश्वे तादृशः कश्चन देशः अन्यः न स्यात्, यश्च मानवोत्थानाय एतावत् योगदानं कृतवान् स्यात् इति । प्राचीने अपि काले भारतेन वैज्ञानिकाः चिकित्सकाः दत्ताः । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिकविज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगतिः साधिता तेन । वर्तमानसभ्यतायाः सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धतेः आविष्कारः यथा, तथैव जातः अन्येषाम् अपि आविष्कार: । दशमानपद्धतिसम्बद्धानां दशानाम् अङ्कानां नामनिर्देश: आदौ संस्कृतशब्दैः जातः ।


यदा भारतस्य वास्तविकः इतिहासः अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरुः आसीत् इति ।


  • भवतः श्रद्धा क्व गता ? भवतः देशभक्तिः क्व अपगता ? भवतः नेत्रयोः पुरतः एव क्रैस्तमतप्रचारकाः हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जनाः तस्य रक्षणाय उद्युक्ताः जाताः, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?
  • मानवस्य अध्ययनं क्रियताम् । मानवः एव सजीवकाव्यम् ।


  • समग्रं जगत् मानवशक्त्या, तीव्रोत्साहेन च निर्मितं वर्तते ।


  • वयं कमपि न तिरस्करवाम । आस्तिकः स्यात्, नास्तिको वा, प्रकृतिदेवतावादी भवतु, बहुदेवतापूजको वा स्यात्, अज्ञेयवादी वा भवतु नाम । वयं सर्वानपि स्वागतीकुर्मः ।


  • प्रत्येकः अपि अन्येषां भावम् अवगच्छेत् । किन्तु स्वत्वं रक्षेच्च । अपि च स्वस्य प्रगतेः नियमानुसारमेव वर्धेत ।


  • अस्माकं राष्ट्रियादर्शौ स्तः - त्यागः सेवा च । सर्वे अपि एतयोः अन्वयं जीवने यदि कुर्युः तर्हि अवशिष्टं सर्वमपि स्वयमेव सम्यक् भविष्यति ।


  • पृष्ठतः न दृश्यताम् । सर्वदा अग्रेसरो भव । अनन्तशक्तिः, अनन्तोत्साहः, अनन्तसाहसम्, अनन्तसहना यदि स्यात् तर्हि महत्कार्यसिद्धिः शक्या ।


  • भारतेन प्राचीने अपि काले वैज्ञानिकाः चिकित्सकाः दत्ताः । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिक-विज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगतिः साधिता तेन । एतेषां सर्वेषाम् आविष्कारः भारते तथैव जातः, यथा वर्तमानसभ्यतायाः सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धतेः आविष्कारः जातः ।


  • भवान् अशनिरवेण गर्जन् वदतु - ‘एकैकोऽपि भारतीयः मम सहोदरः । भारतीयता एव मम प्राणाः । भारतस्य देवदेवताः एव मम आराध्यदेवताः । भारतस्य समाजः एव मम शैशवावस्थायाः प्रेङ्खा, मम तारुण्यस्य विहारोद्यानम्, वार्धक्यस्य वाराणसी च’ इति ।


  • शतकानि यावत् आघाताः प्रवृत्ताः चेदपि, शतशः विदेशीयाक्रमणानि जातानि चेदपि भारतम् एतत् अधीरं न जातम् । स्वस्य मृत्युञ्जयमनोबलेन सत्त्वेन च महाशिला इव दृढतया अतिष्ठत् एषा भूमिः । अविनाशिनः भारतस्य मृत्युञ्जयाः पुत्राः वयम् ।


  • त्वं कस्यापि साहाय्यं कर्तुं नार्हसि । प्रभोः सन्तानस्य सेवामात्रं कर्तुम् अस्ति तव अधिकारः । यदि त्वं भाग्यवान् स्याः तर्हि प्रभोः सेवां कुर्याः । भगवतः अनुग्रहतः तदीयस्य कस्यचित् सन्तानस्य सेवां कर्तुं यदि त्वं शक्तः भवेः तर्हि धन्यतां प्राप्नुयाः । आत्मानं श्रेष्ठं मा भावय । त्वमेव धन्यः, यतः त्वया सेवां कर्तुम् अवसरः प्राप्तः, स च अन्यैः न प्राप्त: । एषा सेवा तव सम्मानसदृशी ।

(भारत में विवेकानन्द, रामकृष्णमठ प्रकाशन, पृ. 182)


  • अद्य समग्रे विश्वे प्रकाशस्य आवश्यकता दृश्यते । भारतं समग्रं विश्वं प्रकाशितं कुर्यात् इति अपेक्षा अस्ति । मायाजालम् ऐन्द्रजालिकं वा अत्र नास्ति । स्वस्य सर्वोत्तमाध्यात्मिकसत्यस्य धर्मस्य च वास्तविकं ज्ञानं वितरणीयम् इति उद्देशेन एव भगवान् सर्वासां विपदां सम्मुखीकरणस्य अनन्तरम् अद्यावधि अस्मान् सजीवान् रक्षितवान् अस्ति । एतस्य ईश्वरीयसंरक्षणस्य उपयोगाय अस्माभिः अग्रे सरणीयम् अस्ति । स च क्षणः इदानीम् उपस्थितः अस्ति ।


  • हिन्दुः सन् जन्म प्राप्तवान् अस्मि इति मयि महान् अभिमानः अस्ति । अयम् अभिमानः मम कारणेन न प्रत्युत मम देशस्य, संस्कृतेः पूर्वजानां च कारणेन । भूतकालम् अवलोकयता मया अनुभूयते यत् अहं सुदृढे शिलाखण्डरूपे आधारे स्थितः अस्मि इति ।

बाह्यशृङ्खला

[सम्पाद्यताम्]
"https://sa.wikiquote.org/w/index.php?title=स्वामी_विवेकानन्दः&oldid=16926" इत्यस्माद् प्रतिप्राप्तम्