स एतमेव सीमानं...

विकिसूक्तिः तः

स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत । - ऎतरेयोपनिषत् १-३-१२

आत्मा एतमेव सीमानं विदार्य एतया द्वारा इमं देहं प्राविशत् ।

कार्यकरणसंघातमिमं सृष्ट्वा ततः परमात्मा 'कथमहम् इमं संघातं प्रविशानि ?' इति
चिन्तितवान् । परमात्मा नाम स्वतन्त्रः महाराज इव । भूपतिः आत्मने महाप्रासादं निर्मापय्य
राजद्वारेण प्रासादं सानन्दं प्रविशति खलु ?

तथैव परमात्मा अपि इमं देहं सीम्ना प्राविशत् किल । परमात्मनि असति अस्य जडस्य देहस्य
किं वा मौल्यम् ? आत्माभावे अयं सङ्घातः देवविहीनदेवमन्दिरवत्, गुरुरहितमठवत्,
राजविहीनराज्यवच्च जीर्णः नष्टो भवति । अतः ‘कथमहं प्रविशानि’ इति सः आलोचयत् ।
देहमिमं प्रवेष्टुं पादः सीमा च इति द्वारद्वयमस्ति । आत्मा हि प्रधानः मुख्यश्च , तस्मात्
सीमानं भित्वा तद्द्वारा इमं देहं परमात्मा प्रविष्टवान् । अयमेव आत्मा अस्मिन् देहे
उपाधिसम्बन्धेन जीवत्वेन संसारित्वेन च अवभासते । उपाधिसम्बन्धपरित्यागे अयं जीवः परमात्मैव भवति ॥

"https://sa.wikiquote.org/w/index.php?title=स_एतमेव_सीमानं...&oldid=16272" इत्यस्माद् प्रतिप्राप्तम्