स एव धन्यो विपदि...

विकिसूक्तिः तः

सुभाषितम्

स एव धन्यो विपदि स्वरूपं यो न मुञ्चति ।
त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम् ॥

sa ēva dhanyō vipadi svarūpaṁ yō na muñcati ।
tyajatyarkakaraistaptaṁ himaṁ dēhaṁ na śītatām ॥

पदच्छेदः

सः, एव, धन्यः, विपदि, स्वरूपं, यः, न, मुञ्चति, त्यजति, अर्ककरैः, तप्तं, हिमं, देहं, न, शीतताम् ।


तात्पर्यम्

आपत्काले यः स्वाभाविकं गुणं न त्यजति सः एव धन्यः । यथा हिमं सूर्यकिरणैः तप्तमपि केवलं देहं त्यजति, न तु शीततां त्यजति । स्वाभाविकं गुणं शीतत्वं न त्यजति ।

"https://sa.wikiquote.org/w/index.php?title=स_एव_धन्यो_विपदि...&oldid=16181" इत्यस्माद् प्रतिप्राप्तम्