स तु तत् पदमाप्नोति...

विकिसूक्तिः तः

आत्मज्ञानोदये पुनर्जन्माभावः

स तु तत् पदमाप्नोति यस्माद्भूयो न जायते । - काठकोपनिषत् १-३-८

स विवेकी मुमुक्षुः पुनरावृत्तिरहितं वैष्णवं पदं, मोक्षमेव आप्नोति ॥

मानवाय भगवता अनुगृहीता परमश्रेष्ठा सम्पत् नाम मानवजन्म,
मानवशरीरम् । इदं मानवशरीरं हि उत्तमो रथः । अस्य रथस्य
सहायेन मोक्षं प्राप्य मानवः कृतकृत्यो भवेत् । तस्मात् विवेकी
मुमुक्षुः इन्द्रियनिग्रहसम्पन्नो भूत्वा आत्मज्ञानार्थं सद्गुरुकृपया
अध्यात्मसाधनमार्गे प्रवर्तेत ॥

पुण्यकर्माणि कृत्वा मरणानन्तरं यद्यपि उत्तमां गतिं प्राप्नोति
मानवः, तथापि तस्मात् पुण्यलोकात् पुनरावर्तते एव । पितृलोकः,
गन्धर्वलोकः, स्वर्गलोकः, ब्रह्मलोकः इति सर्वेऽपि लोकाः अनित्या
एव । आत्मज्ञानी भवति चेत् सः मोक्षमश्नुते । अयं मोक्षः नैव
कर्मफलवत् प्राप्यं फलम् । ब्रह्मस्वरूपमेव हि मोक्षः । ब्रह्मैव
मोक्षधाम । ब्रह्मप्राप्तिर्नाम ब्रह्मस्वरूपेणैव अवस्थानम् । ब्रह्मज्ञानी
ब्रह्मस्वरूप एव भवति । इयमेव जीवन्मुक्तिः । जीवन्मुक्तस्य
पुनर्जन्म नास्ति । ब्रह्मैव सम्पन्नोऽयं भवति ॥ ओं तत् सत् ॥

"https://sa.wikiquote.org/w/index.php?title=स_तु_तत्_पदमाप्नोति...&oldid=16324" इत्यस्माद् प्रतिप्राप्तम्