स य एषोऽणिमा...

विकिसूक्तिः तः

स य एषोऽणिमा ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा
तत्त्वमसि श्वेतकेतो । - छान्दोग्योपनिषत् ६-८-७

सः अयमात्मा अणिमा । अस्य समस्तस्यापि जगतः अयम् आत्मैव
सारभूतः । अयमात्मैव सत्यम् । स एव आत्मा सर्वेषाम् आत्मभूतः ।
हे श्वेतकेतो, तदेव ब्रह्म त्वमसि ॥

अस्मिन् मन्त्रे “तत्त्वमसि” इति महावाक्यं दृश्यते । सामवेदस्य सारभूतमिदं
“तत्त्वमसि” महावाक्यम् । ऋग्वेदीय ऎतरेयोपनिषदः सारत्वेन प्रज्ञानं ब्रह्म;
यजुर्वेदीय बृहदारण्यकोपनिषदः सारत्वेन अहं ब्रह्मास्मि; सामवेदीय
छान्दोग्योपनिषदः सारत्वेन “तत्त्वमसि”; तथा अथर्ववेदीय माण्डूक्योपनिषदः
सारत्वेन “अयमात्मा ब्रह्म” ! एवं चतसृषु उपनिषत्सु चत्वारो मन्त्राः
महावाक्यत्वेन सुप्रसिद्धाः सन्ति ॥

“सत् चित् आनन्द स्वरूपं ब्रह्मैवासि त्वम्” इति एतानि महावाक्यानि
प्रतिपादयन्ति । जीवस्य संसारित्वं जीवत्वम् अविद्याकल्पितम्, आविद्यकम् ।
ब्रह्मात्मत्वं स्वाभाविकम् इति इमानि महावाक्यानि प्रतिपादयन्ति ॥

"https://sa.wikiquote.org/w/index.php?title=स_य_एषोऽणिमा...&oldid=16383" इत्यस्माद् प्रतिप्राप्तम्