स होवाच नमो वयं...
स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्मः इति । - बृहदारण्यकोपनिषत् ३-१-२
वयं ब्रह्मिष्ठाय नमः कुर्मः । गोकामा एव वयं स्मः – इति याज्ञवल्क्यः उवाच ॥
जनकमहाराजः विदुषां सभाम् आयोज्य तत्र बहुदक्षिणाकं यज्ञम् आयोजितवान् । विदुषां विद्वत्तायै पणत्वेन
एकसहस्रं गावः तेन तत्र स्थापिताः । तस्यां सभायां याज्ञवल्क्योऽपि अन्यतमः विद्वान् । सः आत्मनः शिष्यं
सामश्रवम् आहूय 'सौम्य, इमाः गाः अस्मत्कुलं गमय' इति अवदत् ॥
अनन्तरम् उत्थाय सगौरवं याज्ञवल्क्यः इदं वाक्यम् अवदत् 'वयं गोकामाः, युष्मासु यः कोऽपि ब्रह्मिष्ठः अस्ति
चेत् तस्मै अस्माकं नमस्काराः' । स्वयं ब्रह्मिष्ठः याज्ञवल्क्यः सम्यगधीत काण्डद्वयः पण्डितोत्तमश्च, तथापि
तेषां विदुषां संसदि ‘अहं ब्रह्मिष्ठः’ इति आत्मानं नैव स्तुतवान् । अध्यासरहितस्य ब्रह्मिष्ठस्य अहङ्काराभिमानयोः
कुत्र वा अवकाशः ? सौजन्यमूर्तिर्हि ब्रह्मिष्ठः ? सर्वात्मकस्य ब्रह्मिष्ठस्य सौजन्यं नाम सहजं खलु ?