हंसबकन्यायः

विकिसूक्तिः तः

बकसमूहे प्रमादवशात् हंसः भ्रमति चेत् सः बक इति भ्रमः भवति । तत्रमत्स्या भवन्ति वा इति पृष्ट्वा न भवन्ति चेत् किं तस्य वैशिष्ट्यम् इत्यपि तं परिहसन्ति । एवं हसः वकश्च यद्यपि श्वेतवर्णो तथापि नीरक्षीरविवेकेन हंसः बकात् पृथग् भवति । एवं सज्जनदुर्जनयोः रसिकारसिकयोश्च वास्तविकः भेदः योग्यकाले भवति । इति भावः ।

१.कस्त्वं लोहितलोचनास्यचरणो, हंसः कुतो मानसात्
किं तत्रास्ति सुवर्णापङ्कजवनं नीरं सदा निर्मलम् ।
रत्नानां निचया सुवर्णलतिका वैदूर्यहाराः क्वचित्
मण्डूका अपि तत्र सन्ति न बकैराकर्ण्य ही ही कृतम् ॥
२. हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः ।
क्षीरनीरपृथक्कारे हंसो हंसो बको बकः ॥ (सा. ७५)

"https://sa.wikiquote.org/w/index.php?title=हंसबकन्यायः&oldid=17808" इत्यस्माद् प्रतिप्राप्तम्