हस्तस्य भूषणं दानं...

विकिसूक्तिः तः

सुभाषितम्

हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणम् ।
श्रोत्रस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम् ॥

सुभाषितरत्नभाण्डागारम् – १५९/२९१

hastasya bhūṣaṇaṃ dānaṃ, satyaṃ kaṇṭhasya bhūṣaṇam ।
śrotrasya bhūṣaṇaṃ śāstraṃ, bhūśaṇaiḥ kiṃ prayojanam ॥

पदच्छेदः

हस्तस्य, भूषणम्, दानम्, सत्यम्, कण्ठस्य, भूषणम्, श्रोत्रस्य, भूषणम्, शास्त्रम्, भूषणैः, किम्, प्रयोजनम् ।


तात्पर्यम्

हस्तस्य शोभा दानकारणेन भवति, कण्ठस्य शोभा सत्यभाषणेन भवति, कर्णस्य शोभा शास्त्राणां श्रवणेन भवति । अतः स्वर्णादि-अलङ्कारैः किं प्रयोजनम् ?


आङ्ग्लार्थः

Giving is the adornment for the hand; truth is the embellishment for the throat; good counsel (scriptures) is the enhancement to the ear; what is the use of (other) ornaments?

"https://sa.wikiquote.org/w/index.php?title=हस्तस्य_भूषणं_दानं...&oldid=17251" इत्यस्माद् प्रतिप्राप्तम्