हस्ती स्थूलतनुः स...

विकिसूक्तिः तः

सुभाषितम्

हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो
वज्रेणाभिहता पतन्ति गिरयः किं शैलमात्रः पविः ।
दीपे प्रज्वलिते विनश्यति तमः किं दीपमात्रं तमः
तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥

hastī sthūlatanuḥ sa cāṅkuśavaśaḥ kiṃ hastimātro:'ṅkuśo
vajreṇābhihatā patanti girayaḥ kiṃ śailamātraḥ paviḥ ।
dīpe prajvalite vinaśyati tamaḥ kiṃ dīpamātraṃ tamaḥ
tejo yasya virājate sa balavān sthūleṣu kaḥ pratyayaḥ ॥

पदच्छेदः

हस्ती, स्थूलतनुः, सः, च, अङ्कुशवशः, किं, हस्तिमात्रः, अङ्कुशः, वज्रेण, अभिहताः, पतन्ति, गिरयः, किं, शैलमात्रः, पविः, दीपः, प्रज्वलिते, विनश्यति, तमः, किं, दीपमात्रं, तमः, तेजः, यस्य, विराजते, सः, बलवान्, स्थूलेषु, कः, प्रत्ययः ।


तात्पर्यम्

गजः महान् भवति चेत् अपि अङ्कुशेन नियन्त्रितः भवति । किम् अङ्कुशं गजवत् महत् अस्ति? नैव । वज्राघातेन महान् पर्वतोऽपि पतति । किं वज्रः पर्वतवत् कठोरः अस्ति ? न । दीपः प्रज्वलिते सति महत् तमः अपि अपगच्छति । किं तमः दीपवत् सङ्क्षिप्तम् अस्ति ? नैव । एवं अन्तस्तेजः यस्य अस्ति सः एव बलवान् भवति । दृश्यमानं स्थूलशरीरं विद्यते, अन्तः सत्त्वं न विद्यते चेत् प्रयोजनमेव नास्ति ।

"https://sa.wikiquote.org/w/index.php?title=हस्ती_स्थूलतनुः_स...&oldid=16771" इत्यस्माद् प्रतिप्राप्तम्