हस्त्यृषभं सहस्रं...
गुरुभक्तेः परा काष्ठा !
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । - बृहदारण्यकोपनिषत् ४-१-२६
गजसदृशानां गवां सहस्रं ददामि इति याज्ञवल्क्यमहर्षये जनको राजर्षिः
विदेहाधिपतिः उवाच ।
अत्र याज्ञवल्क्यमहर्षिः गुरुः, जनकमहाराजः शिष्यः । गुरुः दरिद्रः, शिष्यः
चक्रवर्ती उदारी च । शिष्यो जनकः न केवलं तत्त्वजिज्ञासुः गुरुभक्तश्च,
किन्तु उदारी च । स्वप्रश्नानां याज्ञवल्क्य गुरोः सकाशात् लब्धप्रतिवचनः
जनकः प्रतिपर्यायमपि ‘गुरुदक्षिणा’त्वेन “सहस्रं धेनूनां ददामि” इति
संकल्प्य तथैव दत्तवान् ॥
गुरुभ्यः दक्षिणात्वेन यस्मिन् कस्मिन् वस्तुनि दत्तेऽपि तत् सार्थकमेव ।
स्वसंपदानुगुण्येन गुरुदक्षिणां समर्पयेत् शिष्यः । अत्र जनकराजः धनी
चक्रवर्ती । स्वसंपदानुगुण्येन गुरुदक्षिणां गुरवे याज्ञवल्क्याय भक्त्या समर्पयति ।
एतद्धि गुरुभक्तेः निदर्शनं नाम ? गुरुभक्तेः इयं हि परा काष्ठा ?
ब्रह्मविद्योपदेशकाय सद्गुरवे समृद्धं सर्वं दत्तमपि अल्पमेव । सद्गुरवे
दत्तं सर्वम् अनन्तमेव भवति । न हि सद्गुरवे अदेयं नाम वस्तु एव नास्ति ॥