अनर्थः

विकिसूक्तिः तः
  • क्षुद्रोऽपि शत्रुरनर्थमुत्पादयति ।
    • चाणक्यविजयम् पृ ८
  • मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ।
    • मृच्छकटिकम् IX १६
  • सततमबलानर्थबहुलाः ।
    • प्रबोधचन्द्रोदयम् ११२
  • रन्ध्रोपनिपातिनोऽनर्थाः ।
    • अभिज्ञानशाकुन्तलम् पृ ३३५
  • सङ्घचारिणोऽनर्थाः ।
    • प्रतिज्ञायौगन्धरायणम् पृ ९१
"https://sa.wikiquote.org/w/index.php?title=अनर्थः&oldid=141" इत्यस्माद् प्रतिप्राप्तम्