अनर्थः
नेविगेशन पर जाएँ
खोज पर जाएँ
- क्षुद्रोऽपि शत्रुरनर्थमुत्पादयति ।
- चाणक्यविजयम् पृ ८
- मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ।
- मृच्छकटिकम् IX १६
- सततमबलानर्थबहुलाः ।
- प्रबोधचन्द्रोदयम् ११२
- रन्ध्रोपनिपातिनोऽनर्थाः ।
- अभिज्ञानशाकुन्तलम् पृ ३३५
- सङ्घचारिणोऽनर्थाः ।
- प्रतिज्ञायौगन्धरायणम् पृ ९१