कालिदाससूक्तयः (मालविकाग्निमित्रम्)
दिखावट
मालविका
[सम्पाद्यताम्]१. दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः,
- सङ्क्षिप्तं निबिडोन्नतस्तनमुरः ओपार्श्वे प्रमृष्टे इव ।
- मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली –
- छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ मालविका० २।३॥
२. अव्याजसुन्दरीं तां विधानेन ललितेन योजयता ।
- परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ मालविका० २।१३॥
३. विपुलं नितम्बदेशे मध्ये क्षामं समुन्नतं कुचयोः ।
- अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ मालविका० ३। ७॥
४. शरकाण्डपाण्डुगणडस्थलेयमाभाति परिमिताभरणा ।
- माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ मालविका० ३। ८।