कालिदाससूक्तयः (मालविकाग्निमित्रम्)

विकिसूक्तिः तः

मालविका[सम्पाद्यताम्]

१. दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः,

सङ्क्षिप्तं निबिडोन्नतस्तनमुरः ओपार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली –
छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ मालविका० २।३॥

२. अव्याजसुन्दरीं तां विधानेन ललितेन योजयता ।

परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ मालविका० २।१३॥

३. विपुलं नितम्बदेशे मध्ये क्षामं समुन्नतं कुचयोः ।

अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ मालविका० ३। ७॥

४. शरकाण्डपाण्डुगणडस्थलेयमाभाति परिमिताभरणा ।

माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ मालविका० ३। ८।