अनिर्वेदं च दाक्ष्यं च...

विकिसूक्तिः तः

सुभाषितम्

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् ।
कार्यसिद्धिकराण्याहुः तस्मादेतत् ब्रवीम्यहम् ॥

रामायणम् ४/४९/६

anirvedaṃ ca dākṣyaṃ ca manasaścāparājayam ।
kāryasiddhikarāṇyāhuḥ tasmādetat bravīmyaham ॥

पदच्छेदः

अनिर्वेदं, च, दाक्ष्यं, च, मनसः, च, अपराजयम्, कार्यसिद्धिकराणि, आहुः, तस्मात्, एतत्, ब्रवीमि, अहम् ।


तात्पर्यम्

निरुत्साहराहित्यं, दक्षता, मानसिकस्थैर्यञ्च कार्यसिद्धेः मूलकारणानि ।


आङ्ग्लार्थः

It is said, zeal, capability, and fortitude can overcome defeat and lead to success. Therefore I am saying this.