मित्रस्वजनबन्धूनां...

विकिसूक्तिः तः

सुभाषितम्

मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥

हितोपदेशः - सुहृद्भेदः ८०

mitrasvajanabandhūnāṃ buddherdhairyasya cātmanaḥ ।
āpannikaṣapāṣāṇe naro jānāti sāratām ॥

पदच्छेदः

मित्रस्वजनबन्धूनां, बुद्धेः, धैर्यस्य, च, आत्मनः, आपन्निकषपाषाणे, नरः, जानाति, सारताम् ॥


तात्पर्यम्

मित्राणां बन्धूनां च वास्तवस्वभावम्, आत्मनः धैर्यञ्च मनुष्यः विपदाम् उपस्थितौ एव अवगच्छति ।


आङ्ग्लार्थः

A man knows (tests) on the touch-stone of adversity the strength of his relatives, wife and servants, as also of his intellect and mental calibre.

"https://sa.wikiquote.org/w/index.php?title=मित्रस्वजनबन्धूनां...&oldid=17818" इत्यस्माद् प्रतिप्राप्तम्