स्मृतिसूक्तयः (पर्यावरणम्)

विकिसूक्तिः तः

१. तीर्थानि सरितोऽम्भांसि
स्वतः शुद्धानि सर्वदा ॥
मार्कण्डेयस्मृतिः, पृ.२२

२. दिवा सूर्यांशुभिस्तप्तं
रात्रौ नक्षत्रमारुतैः ।
सन्ध्ययोरप्युभाभ्यां च
पवित्रं सर्वदा जलम् ॥
लघुयमस्मृतिः, श्लोकः ९६