स्मृतिसूक्तयः(योगः)
दिखावट
<poem> १. आश्रमे तु यतिर्यस्य
- मुहूर्तमपि विश्रमेत् ।
- किं तस्यान्येन धर्मेण
- कृतकृत्यो हि जायते ॥
- दक्षस्मृतिः, ७/४६
२. इन्द्रियाणां विचरतां
- विषयेष्वपहारिषु ।
- संयमे यत्नमातिष्ठेद्
- विद्वान् यन्तेव वाजिनाम् ॥
- मनुस्मृतिः २/८८
३. जितेन्द्रियो हि शक्नोति
- वशे स्थापयितुं प्रजाः ।
- मनुस्मृतिः, ७/४४
४. तपसा किल्विषं हन्ति
- विद्ययाऽमृतमश्नुते ।
- मनुस्मृतिः, १२/१०४
५. तपसैव सुतप्तेन
- मुच्यन्ते सर्वकिल्विषात् ।
- मनृस्मृतिः ११/२३९
६. तपोमूलमिदं सर्वं
- दैवमानुषकं सुखम् ।
- मनुस्मृतिः ११/२३३
७. तपो हि दुरतिक्रमम् ।
- मनुस्मृतिः, ११/२३८
८. तीव्रे तपसि लीनाना-
- मिन्द्रियाणां न विश्वसेत् ।
- विश्वामित्रोऽपि सोत्कण्ठं
- कण्ठे जग्राह मेनकाम् ॥
- शार्ङ्गधरपद्धतिः श्लोकः १५१६
९. दान्तः शुचिस्तपस्वी च
- सत्यवाग्विजितेन्द्रियः ।
- स सात्त्विकः शमयुतः
- सुरयोनिषु जायते ॥
- वृद्धहारीतस्मृतिः, ९/१६३
१०. द्वाविमौ पुरुषौ लोके
- सूर्यमण्डलभेदिनौ ।
- परिव्राड्योगयुक्तश्च
- रणे चाभिमुखो हतः ॥
- पराशरस्मृतिः, ३/३२
११. ध्यानयोगपरिश्रान्तां
- यस्तु भोजयते यतिम् ।
- अखिलं भोजितं तेन
- त्रैलोक्यं सचराचरम् ॥
- दक्षस्मृतिः ७/४८
१२. न तथैतानि शक्यन्ते
- संनियन्तुमसेवया ।
- विषयेषु प्रजुष्टानि
- यथा ज्ञानेन नित्यशः ॥
- मनुस्मृतिः, २/९६
१३. प्रायो नाम तपः प्रोक्तं
- चित्तं निश्चय उच्यते ।
- तपो निश्चय संयुक्तं
- प्रायश्चित्तमिति स्मृतम् ॥
- मनुस्मृतिः ११/४७
१४. ब्राह्मणस्य तपो ज्ञानं
- तपः क्षत्रस्य रक्षणम् ।
- वैश्यस्य तु तपो वार्ता
- तपः शूद्रस्य रक्षणम् ॥
- मनुस्मृतिः ११/२३५
१५. भैक्षेणा व्रतिनो वृत्तिः ।
- मनुस्मृतिः,२/१८८
१६. यद् दुस्तरं यद् दुरापं
- यद् दुर्गं यच्च दुष्करम् ।
- सर्वं तत्तपसा साध्यं
- तपो हि दुरतिक्रमम् ॥
- मनुस्मृतिः,११/२३९
१७. योगिनं पूजयेन्नित्य –
- मन्यथा किल्विषी भवेत् ।
- विष्णुस्मृतिः २/१२/२
१८. योगेनावाप्यते ज्ञानं
- योगो धर्मस्य लक्षणम् ।
- योगमूला गुणाः सर्वे
- तस्माद्युक्तः सदा भवेत् ।
- बोधायनस्मृतिः ४/१/२७
१९. सर्वभूतसमत्वेन
- योगः सिध्यति नान्यथा ।
- दक्षस्मृतिः ७/७
२०. स्थावराणि च भूतानि
- दिवं यान्ति तपो बलात् ।
- मनुस्मृतिः ११/२४०
२१. स्वयं वेद्यं च तद् ब्रह्म
- कुमारी मैथुनं यथा ।
- दक्षस्मृतिः ७/२५