स्मृतिसूक्तयः(योगः)

विकिसूक्तिः तः

<poem> १. आश्रमे तु यतिर्यस्य

मुहूर्तमपि विश्रमेत् ।
किं तस्यान्येन धर्मेण
कृतकृत्यो हि जायते ॥
दक्षस्मृतिः, ७/४६

२. इन्द्रियाणां विचरतां

विषयेष्वपहारिषु ।
संयमे यत्नमातिष्ठेद्
विद्वान् यन्तेव वाजिनाम् ॥
मनुस्मृतिः २/८८

३. जितेन्द्रियो हि शक्नोति

वशे स्थापयितुं प्रजाः ।
मनुस्मृतिः, ७/४४

४. तपसा किल्विषं हन्ति

विद्ययाऽमृतमश्नुते ।
मनुस्मृतिः, १२/१०४

५. तपसैव सुतप्तेन

मुच्यन्ते सर्वकिल्विषात् ।
मनृस्मृतिः ११/२३९

६. तपोमूलमिदं सर्वं

दैवमानुषकं सुखम् ।
मनुस्मृतिः ११/२३३

७. तपो हि दुरतिक्रमम् ।

मनुस्मृतिः, ११/२३८

८. तीव्रे तपसि लीनाना-

मिन्द्रियाणां न विश्वसेत् ।
विश्वामित्रोऽपि सोत्कण्ठं
कण्ठे जग्राह मेनकाम् ॥
शार्ङ्गधरपद्धतिः श्लोकः १५१६

९. दान्तः शुचिस्तपस्वी च

सत्यवाग्विजितेन्द्रियः ।
स सात्त्विकः शमयुतः
सुरयोनिषु जायते ॥
वृद्धहारीतस्मृतिः, ९/१६३

१०. द्वाविमौ पुरुषौ लोके

सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च
रणे चाभिमुखो हतः ॥
पराशरस्मृतिः, ३/३२

११. ध्यानयोगपरिश्रान्तां

यस्तु भोजयते यतिम् ।
अखिलं भोजितं तेन
त्रैलोक्यं सचराचरम् ॥
दक्षस्मृतिः ७/४८

१२. न तथैतानि शक्यन्ते

संनियन्तुमसेवया ।
विषयेषु प्रजुष्टानि
यथा ज्ञानेन नित्यशः ॥
मनुस्मृतिः, २/९६

१३. प्रायो नाम तपः प्रोक्तं

चित्तं निश्चय उच्यते ।
तपो निश्चय संयुक्तं
प्रायश्चित्तमिति स्मृतम् ॥
मनुस्मृतिः ११/४७

१४. ब्राह्मणस्य तपो ज्ञानं

तपः क्षत्रस्य रक्षणम् ।
वैश्यस्य तु तपो वार्ता
तपः शूद्रस्य रक्षणम् ॥
मनुस्मृतिः ११/२३५

१५. भैक्षेणा व्रतिनो वृत्तिः ।

मनुस्मृतिः,२/१८८

१६. यद् दुस्तरं यद् दुरापं

यद् दुर्गं यच्च दुष्करम् ।
सर्वं तत्तपसा साध्यं
तपो हि दुरतिक्रमम् ॥
मनुस्मृतिः,११/२३९

१७. योगिनं पूजयेन्नित्य –

मन्यथा किल्विषी भवेत् ।
विष्णुस्मृतिः २/१२/२

१८. योगेनावाप्यते ज्ञानं

योगो धर्मस्य लक्षणम् ।
योगमूला गुणाः सर्वे
तस्माद्युक्तः सदा भवेत् ।
बोधायनस्मृतिः ४/१/२७

१९. सर्वभूतसमत्वेन

योगः सिध्यति नान्यथा ।
दक्षस्मृतिः ७/७

२०. स्थावराणि च भूतानि

दिवं यान्ति तपो बलात् ।
मनुस्मृतिः ११/२४०

२१. स्वयं वेद्यं च तद् ब्रह्म

कुमारी मैथुनं यथा ।
दक्षस्मृतिः ७/२५
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः(योगः)&oldid=7860" इत्यस्माद् प्रतिप्राप्तम्