गद्यकाव्यसूक्तयः (अर्थः)

विकिसूक्तिः तः

<poem> १. अर्थस्तावदर्जन-वर्धनरक्षणात्मकः, कृषि-पशुपालन-वाणिज्य-सन्धिविग्रहादिपरिवारः

तीर्थप्रतिपादनफलश्च । - दशकुमारचरितम्, उत्तरपीठिका उ २

२. अलीकाभिमानोन्मदकारीणि धनानि । - कादम्बरी, पूर्वभागः

३. अविश्वास्यता हि जन्मभूमिरलक्ष्म्याः । - दशकुमारचरितम्, उत्तर ० उ ८

४. कष्टमनञ्जनवर्ति साध्यमपरमैश्वर्यतिमिरान्धत्वम् । - कादम्बरी, पूर्वभागः

५. केवलमभूमिर्मुनिजनो विभवानाम् ।

विषयोपभोगगृध्नवो हि धनान्युपाददते ॥ - तिलकमन्ञ्जरी, पृ० २६

६. धनोष्मणा म्लायति अलं लतेव मनस्विता । - हर्षचरितम्, उ ३

७. ये च सर्वप्राणिसाधारणमाहारमपि शरीरवृत्तये गृह्णन्ति, शरीरमपि

धर्मसाधनमिति धारयन्ति, धर्ममपि मुक्तिकारणमिति बहु मन्यते, मुक्तिमपि
निरुत्सुकेन चेतसाभिवाञ्छन्ति, ते कथमसारसांसारिकसुखप्राप्त्यर्थमनेकार्थहेतुमर्थं
गृह्णन्ति । - तिलकमन्ञ्जरी, पृ० २६

८. सत्यं सम्पत् सम्पदमनुबध्नाति । - कृष्णचरितम् पृ० २३