गद्यकाव्यसूक्तयः (गुरुजनमहिमा)

विकिसूक्तिः तः

<poem>

१ . गुरवो हि दैवतं बालानाम् । - कादम्बरी उत्तरभागाः

२ . गुरूपदेशः प्रशमहेतुर्वयः परिणाम इव पलितरूपेण

शिरसिजजालममलीकुर्वन् गुणरूपेण तदेव परिणमयति । - कादम्बरी पूर्वभागः

३ . गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम् । - कादम्बरी पूर्वभागः

४. माननीयं च गुरवन्नोल्लङ्घनमर्हति गुरोरासनम् । - हर्षचरितम् ऊ० ३

५. यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते तथैवाक्रोशाः शापताम् । - कादम्बरी उत्तरभागाः

६. स्वप्नायमानानामपि यद् गुरूणां मुखेभ्यो निष्क्रमाति शुभमशुभं वा

शिशुषु तदवश्यं फलति । - कादम्बरी उत्तरभागाः

७. हरति मलिनान्धकारमिव दोषजातं प्रदोषसमयनिशाकर इव गुरूपदेशः । - कादम्बरी पूर्वभागाः