अचल-चलन्यायः

विकिसूक्तिः तः

प्रवाससमये वृक्षाः चलन्तः दृश्श्यन्ते, चलन्ती नौका प्रायः स्थिरा इव भान्ति, वेगेन भ्रमन् वस्तुविशेषः स्थिरः इव भाति । अत्यन्तवेगेन भ्रमतः व्यजनस्य पत्राणि न दृशश्यन्ते । एतत् सर्वं भ्रान्तिवशात् । तथा एकस्य वस्तुनः चलनं स्थिरत्वं वा द्योतयितुम् अस्य न्यायस्य उपयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=अचल-चलन्यायः&oldid=8154" इत्यस्माद् प्रतिप्राप्तम्