अजागलस्तनन्यायः

विकिसूक्तिः तः

अजायाः गलस्य अधः स्तन इव दृश्यमानः कश्चन मांसखण्डः लम्बमानो भवति । अजायाः शारीरकप्रक्रियायाम् अस्य स्थानम् न भवति । निरुपयोगिनः प्रयोजनरहितस्य च वस्तुनः सूचनार्थम् अस्य न्यायस्य प्रयोगः क्रियते । न्यायः अयं तदेव निष्प्रयोजनत्वं दर्शयति । उदाहरणार्थं-

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥
(ब्रह्माण्डपुराणे अ. १५०) (सा. ५८२)
"https://sa.wikiquote.org/w/index.php?title=अजागलस्तनन्यायः&oldid=8158" इत्यस्माद् प्रतिप्राप्तम्