अनारभ्याधीतविधिन्यायः

विकिसूक्तिः तः

कमपि एकं विशिष्टं विषयम् अननुसृत्य प्रवर्तमानं विधानं यदा क्रियते तदा अस्य न्यायस्य प्रयोगः भवति । एतादृशानां सर्वेषामपि विधीनां प्रकृत्यर्थेन सह अन्वयः भवति । तैत्तिरीयसंहितायां (३-५-७-२) यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं कृणॊति’ इति एकं वाक्यं वर्तते । जुहूः (चमसः) पर्णमयी (पलाशावृक्षकाष्ठेन) भवति चेत् तस्मात् एकम् अपूर्वम् उत्पद्यते इति मीमांसकानां सिद्धान्तः । वाक्यम् इदं कस्मिन् अपि दर्शपूर्णयागाख्ये प्रकृतियागे विकृतियागे वा न संबध्यते । पूर्वः कोऽपि सम्बन्धः न वर्तत इति कारणेन ‘अनारभ्याधीतम्’ इति कथ्यते ।