अतीतमहिषीस्नेहन्यायः

विकिसूक्तिः तः

एकस्य गृहस्थस्य समीपे एका महिषी आसीत् । सः तस्याम् अतीव स्निह्यति स्म । कालेन सः गृहस्थः गृहस्थाश्रमात् वानप्रस्थाश्रमं प्रविष्टः । वानप्रस्थाश्रमे सर्वे अपि बन्धाः त्यक्तव्याः भवन्ति । परन्तु अस्य गृहस्थस्य मनसि महिषीं प्रति वर्तमानः उत्कटः स्नेहः न गतः । प्राचीनाः बन्धाः शाश्वताः भवन्ति । वयं तं बन्धं शीघ्रं विस्मर्तु न शक्नुमः इति अनेन न्यायेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=अतीतमहिषीस्नेहन्यायः&oldid=8165" इत्यस्माद् प्रतिप्राप्तम्