अन्धपरम्परान्यायः

विकिसूक्तिः तः

अ. कश्चन अन्धः एकं कार्य करोति अपरः अन्धः तदेव करोति । अन्यः तस्य अनुकरणं करोति । एवं सर्वे अन्धाः अनुकरणं कुर्वन्ति ।

द्रष्टव्यम् - अनादित्वेऽपि अन्धपरम्परान्यायेन अप्रतिष्ठैव अनवस्था व्यवहारलोपिनी स्यात् नाभिप्रायसिद्धिः ॥ (सा.२४)

आ. यदा कापि दशा स्थिरा न भवति, दशाम् अनुसृत्य दशा भवति । तर्हि काचित् अनन्ता परम्परा जायते । एतम् अनवस्थाप्रसङ्गं वदन्ति । एतादृशपरिस्थितौ अपि अस्य न्यायस्य प्रयोगः भवति । अयम् अनवस्थान्याय इति पूर्वम् उल्लिखितः ।

"https://sa.wikiquote.org/w/index.php?title=अन्धपरम्परान्यायः&oldid=8201" इत्यस्माद् प्रतिप्राप्तम्