अन्धाक्षिमीलनन्यायः

विकिसूक्तिः तः

अन्धः नेत्रे उन्मीलयति निमीलयति चेदपि किं तेन ? निष्प्रयोजनम् एव खलु । कस्याम् अपि अवस्थायां किमपि न दृश्येत । तस्य शारीरिकानां क्रियाणां परिणामः न भवति । एतस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अन्धाक्षिमीलनन्यायः&oldid=8210" इत्यस्माद् प्रतिप्राप्तम्