अन्धानन्धन्यायः

विकिसूक्तिः तः

केनापि कारणेन अन्धस्य अन्धत्वे नष्टे दृष्टिः प्राप्ता इति द्योतयितुम् अस्य न्यायस्य प्रयोगः क्रियते । अज्ञानस्य नाशेन ज्ञानं प्राप्तम् इति सूचयितुम् अपि अस्य प्रयोगः क्रियते । परमेश्वरस्य प्राप्तिः नाम अन्धत्वस्य नाश इत्यपि अर्थः भवितुम् अर्हति । अस्मिन् अर्थे उपनिषत्सु एकं वाक्यम् अस्ति -

तं वा एतं सेतुं तीर्त्वा अन्धः सन् अनन्धो भवति (छन्दो.८-४-१)

"https://sa.wikiquote.org/w/index.php?title=अन्धानन्धन्यायः&oldid=8221" इत्यस्माद् प्रतिप्राप्तम्