अयस्कान्तसूचिन्यायः

विकिसूक्तिः तः

अयस्कान्तमणिर्नाम लोहचुम्बकः मणिः । एषः मणिः स्वस्थाने एव भूत्वा अयसः शकलान् आकर्षति । सः स्वयं किमपि न करोति । सांख्यदर्शनानुसारं पुरुषतत्त्वं निष्क्रयं भवति । तत् स्वसमीपे वर्तमानायाः प्रकृतेः द्वारा जगत्- निर्माणम् इत्यादिकं करोति । यः स्वतः निष्क्रियः भूत्वा अन्येषां द्वारा कार्याणि संपादयति तादृशस्य पुरुषस्य कृते अस्य न्यायस्य प्रयोगः क्रियते । यथा अयस्कान्तवद् रुपादिवच्च प्रवृत्तिरहितादपि प्रवर्तको भवति । ( ब्रह्मसूत्रशाङ्करभाष्यं २-१-२२)

"https://sa.wikiquote.org/w/index.php?title=अयस्कान्तसूचिन्यायः&oldid=8308" इत्यस्माद् प्रतिप्राप्तम्