अर्कमधुन्यायः

विकिसूक्तिः तः

अर्कः इत्यस्य कार्पासवृक्षः इति अर्थः । यदि समीपवर्तिनि अर्कवृक्षे मधु प्राप्तुं शक्यते चेत् पर्वतं गत्वा मधोः अन्वेषणस्य कोलाहलः किमर्थ करणीयः ? यत् अल्पेन परिश्रमेण किमपि साधयितुं शक्यते चेत् तदर्थ निष्कारणमेव महान् परिश्रयः न करणीयः इति अनेन न्यायेन सूच्यते । अर्के चेन्मधु विन्देत किमर्थ पर्वतं व्रजेत् ।

"https://sa.wikiquote.org/w/index.php?title=अर्कमधुन्यायः&oldid=8314" इत्यस्माद् प्रतिप्राप्तम्