अश्वतरीगर्भन्यायः

विकिसूक्तिः तः

गर्दभस्य अश्वायाः संगमेन यत् अपत्यं भवति तत् ‘अश्वतरी’ भवति । तस्याः गर्भः तस्याः एव नाशस्य कारणं भवति । तथैव दुष्टेन सह इष्टस्य संयोगं कर्तु यः प्रयत्नं करोति स एव नाशं प्राप्नोति ।

सकृद् दृष्टमपीष्टं यः पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृहणाति गर्भमश्वतरी यथा ॥
"https://sa.wikiquote.org/w/index.php?title=अश्वतरीगर्भन्यायः&oldid=8328" इत्यस्माद् प्रतिप्राप्तम्