अस्नेहदीपन्यायः

विकिसूक्तिः तः

शुष्केण नीरसेन वा भावेन स्थितिः । यस्य दीपस्य तैलम् एव नास्ति सः दीपः गतप्रायः, तस्य दीप इति केवलं नामधेयम् । एतत् द्योतयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।

तत्र वर्षसहस्त्राणि निर्विकल्पसमाधिना ।
दश स्थित्वा शशामासावात्मनि अस्नेहदीपवत् ॥
"https://sa.wikiquote.org/w/index.php?title=अस्नेहदीपन्यायः&oldid=8344" इत्यस्माद् प्रतिप्राप्तम्