अपदो दूरगामी च...
दिखावट
प्रहेलिका
अपदो दूरगामी च
साक्षरो न च पण्डितः।
अमुखः स्फुटवक्ता च
यो जानाति स पण्डितः॥
अर्थः
पादौ न विद्येते चेदपि बहु दूरं गच्छति । अक्षरज्ञानं विद्यते चेदपि पण्डितः न । मुखरहितः चेदपि स्फुटं वक्तुं समर्थः अस्ति । किं तत् ?
उत्तरम्
पत्रम्