स्फटिकलौहित्यन्यायः

विकिसूक्तिः तः

स्फटिकस्य समीपे जपाकुसुमं स्थापितं चेत् स्फटिके तस्य रक्तवर्णस्य प्रतिफलनं भूत्वा स्फटिकः रक्तवर्णः भासते । एवम् उपाधिवशात् पदार्थस्य धर्मपरिवर्तनम् इवाभासते इति अनेन न्यायेन बोध्यते । (परमार्थसारे १६, ६२)

"https://sa.wikiquote.org/w/index.php?title=स्फटिकलौहित्यन्यायः&oldid=11358" इत्यस्माद् प्रतिप्राप्तम्