जैनदर्शनसूक्तयः (कार्यम्)

विकिसूक्तिः तः

<poem> १. कारणद्वयसान्निध्यात्सर्वकार्यसमुद्भवः । - उत्तरपुराणम् ७३.५३

२. न ह्यमन्त्रं विनिश्चेयं

निश्चेते च न मन्त्रणम् । - क्षत्रचूडामणिः १०.१०

३. भेजे शुभनिमित्तेन सनिमित्ता हि भाविनः । - क्षत्रचूडामणिः ५.४२

४. योग्यकालप्रतीक्षा हि प्रेक्षापूर्वविधायिनः । - क्षत्रचूडामणिः ९.२२

५. शसन्ति निश्चिते कृत्ये

कृतज्ञाः क्षिप्रकारिताम् । - उत्तरपुराणम् ६८.४३८

६. सामग्रीविकलं कार्यं

न हि लोके विलोकितम् । - क्षत्रचूडामणिः ८.५६