जैनदर्शनसूक्तयः (कार्यम्)
दिखावट
<poem> १. कारणद्वयसान्निध्यात्सर्वकार्यसमुद्भवः । - उत्तरपुराणम् ७३.५३
२. न ह्यमन्त्रं विनिश्चेयं
- निश्चेते च न मन्त्रणम् । - क्षत्रचूडामणिः १०.१०
३. भेजे शुभनिमित्तेन सनिमित्ता हि भाविनः । - क्षत्रचूडामणिः ५.४२
४. योग्यकालप्रतीक्षा हि प्रेक्षापूर्वविधायिनः । - क्षत्रचूडामणिः ९.२२
५. शसन्ति निश्चिते कृत्ये
- कृतज्ञाः क्षिप्रकारिताम् । - उत्तरपुराणम् ६८.४३८
६. सामग्रीविकलं कार्यं
- न हि लोके विलोकितम् । - क्षत्रचूडामणिः ८.५६