जैनदर्शनसूक्तयः (क्षणभङ्गुरता)

विकिसूक्तिः तः

१. नैव बुध्यामहे किं तु कायमेव क्षयात्मकम् । - क्षत्रचूडामणिः ९.१३

२. मनुष्य जीवितमिदं क्षणान्नाशमुपागतम् । - पद्मपुराणम् ११८.१०३

३. विलोभ्यमानो विषयैर्वराको भङ्गुरैर्भृशम्,

नारम्भदोषान्मनुते मोहेन बहुदुःखदान् । - जीवन्धरचम्पूः ११.२६

४. सर्वं भङ्गुरं विश्वसम्भवम् । - वीरवर्धमानचरितम् ५.१०१