अष्टादशपुराणेषु...

विकिसूक्तिः तः

सुभाषितम्

अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥

aṣṭādaśapurāṇeṣu vyāsasya vacanadvayam ।
paropakāraḥ puṇyāya pāpāya parapīḍanam ॥

पदच्छेदः

अष्टादशपुराणेषु, व्यासस्य, वचनद्वयम्, परोपकारः, पुण्याय, पापाय, परपीडनम् ।


तात्पर्यम्

अष्टादशसु पुराणेषु व्यासेन अंशद्वयं प्रामुख्येन उपदिष्टमस्ति । अन्येषां कृते उपकृतिः पुण्याय कल्पते । अन्येषां पीडनं पापाय कल्पते इति ।


आङ्ग्लार्थः

In all the 18 Puranas, only two messages of Maharshi Vyas hold prominence: Doing favour to others is the 'Punya' and Giving troubles to others is the 'Paap'.

"https://sa.wikiquote.org/w/index.php?title=अष्टादशपुराणेषु...&oldid=17488" इत्यस्माद् प्रतिप्राप्तम्