जाड्यं धियो हरति...

विकिसूक्तिः तः


जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥

"https://sa.wikiquote.org/w/index.php?title=जाड्यं_धियो_हरति...&oldid=15800" इत्यस्माद् प्रतिप्राप्तम्