जैनदर्शनसूक्तयः (प्राज्ञः)

विकिसूक्तिः तः

<Poem> १. असत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् । - योगशास्त्रम् २.५७ २. चतुराणां स्वकार्योक्तिः स्वमुखान्न हि वर्तते । - क्षत्रचूडामणिः ८.२३ ३. प्रयोजनवशात् प्राज्ञैः प्रास्तोऽपि परिगृह्यते । - पद्मपुराणम् ४३.२९१ ४. प्राज्ञैः शोको न धार्यते । - पद्मपुराणम् ४८.१५६ ५. भेतव्यं खलु भेतव्यं प्राज्ञैरज्ञोचिता परम् । - क्षत्रचूडामणिः ७.४३ ६. वञ्चनं चावमानं च न हि प्राज्ञैः प्रकाश्यते । - क्षत्रचूडामणिः ८.१२ ७. विशेषज्ञाः हि बुध्यन्ते सदसन्तौ कुतश्चन । - क्षत्रचूडामणिः ९.२४