जैनदर्शनसूक्तयः (सत्यम्)

विकिसूक्तिः तः

<Poem> १. असत्यं सत्यतां याति क्वचिज्जीवस्य रक्षणात् । - लाटिसंहिता ६.७ २. ज्ञानचारित्रशिक्षादौ स धर्मः सुनिगद्यते । धर्मोपवृहर्णार्थं यत्साधुसत्यं तदुच्यते । - तत्वार्थसारः ६.१७ ३. तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् । - योगशास्त्रम् १.२१ ४. तत्सत्यमपि नो सत्यमप्रियं चाहितं च यत् । - धर्मा० ४.४२ ५. प्रतिक्षणं स्थित्युदय-व्ययात्म-तत्त्व –व्यवस्थं सदिहाऽर्थरूपम् । - यु० अ० ४८ ६. भजत सत्यवचो निरवद्यताम् । - दयोदयचम्पूः ९ ७. वाच्यं न वैरजनकं हि मिथो व्यथादं । भ्रान्तिप्रदं विपदि वाऽपि तदेव सत्यम् । - श्रावकधर्मप्रदीपः ३.९८ ८. सत्यं प्रियं हितं चाहुः सुनृतं सुनृताव्रताः । तत्सत्यमपि नो सत्यमप्रियं चाहितं च यत् । - अन० ध० ४.४२ ९. सत्यं मितं हितकरं सुखदं सुवाच्यम् श्रीदं वचः प्रियकरं मदमानमुक्तम् । - श्रावकधर्मप्रदीपः ३.९८