जैनदर्शनसूक्तयः (हिंसा)

विकिसूक्तिः तः

<Poem> १.अधर्मस्तु हिंसा यत्रास्ति सा ध्रुवम् । - वर्धमानचम्पूः ८.४७

२.आत्मपरिणामहिंसनहेतुत्वात् सर्वमेव हिंसैतत् । - पुरुषार्थसिद्धयुपायः ४२

३.आरभ्य कर्तुमकृतापि फलति हिंसानुभावेन । - पुरुषार्थसिद्धयुपायः ५४

४.जुहोति किं न स्वं तथा च बन्धूनतो बधो नास्ति कदापि धर्मः । - व.च. ८.४९

५.तदव्यपरोपेऽपि हिंस्त्रो रागादिसंश्रितः । - धर्म० ४.२३

६.न वधको भक्षकं बिना । - योगशास्त्रम् ३.२३

७.पुराणं धर्मशास्त्रं च तत्स्याद् वधनिषेधयत् । - आदिपुराणम् ३९.२३

८.फलति हिंसानुभावेन । - पुरुषार्थसिद्धयुपायः ५४

९.मद्यं भजतां तेषां हिंसा संजायते वश्यम् । - पुरुषार्थसिद्धयुपायः ६३

१०.मांसं भजतस्तस्मात् प्रसरत्यनिवारिता हिंसा । - पुरुषार्थसिद्धयुपायः ६५

११.रताः पशुवधे ये तु न ते शुद्धा दुराशयाः । - आदिपुराणम् ३९.३०

१२.लोभाभिमानात्परपीडनं स्यादिहिंसैव दुष्टाऽविखलविश्वहन्त्री । - श्रावकधर्मप्रदीपः ३.९

१३.वधोपदेशि यत्तत्तु ज्ञेयं धूर्तप्रणेतृकम् । - आदिपुराणम् ३९.२३

१४.वधहेतूनां दानं हिंसादानं ब्रवन्ति बुधाः । - रत्नकरण्डश्रावकाचारः ४.७७

१५.हिंसा हि संसृतेर्मूलम् । - पद्मपुराणम् २.१८१

१६.हिंसोपदेशि यद्वाक्यं न वेदोऽसौकृतान्तवाक् । - आदिपुराणम् ३९.२२