मृदपि च चन्दनम्...

विकिसूक्तिः तः

मृदपि च चन्दनम्...


मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम् ।

यत्र च बाला देवीस्वरूपा बाला: सर्वे श्रीरामा: ॥


हरिमन्दिरमिदमखिलशरीरम्
धनशक्ती जनसेवायै
यत्र च क्रीडायै वनराज:
धेनुर्माता परमशिवा
नित्यं प्रात: शिवगुणगानं
दीपनुति: खलु शत्रुपरा ॥१॥


भाग्यविधायि निजार्जितकर्म
यत्र श्रम: श्रियमर्जयति
त्यागधनानां तपोनिधीनां
गाथां गायति कविवाणी
गङ्गाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी ॥२॥


यत्र हि नैव स्वदेहविमोह:
युद्धरतानां वीराणाम्
यत्र हि कृषक: कार्यरत: सन्
पश्यति जीवनसाफल्यम्
जीवनलक्ष्यं न हि धनपदवी

यत्र च परशिवपदसेवा ॥३॥
- जनार्दन हेगडे


"https://sa.wikiquote.org/w/index.php?title=मृदपि_च_चन्दनम्...&oldid=15203" इत्यस्माद् प्रतिप्राप्तम्