मृदपि च चन्दनम्...
दिखावट
मृदपि च चन्दनम्...
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम् ।
यत्र च बाला देवीस्वरूपा बाला: सर्वे श्रीरामाः ॥
हरिमन्दिरमिदमखिलशरीरम्
धनशक्ती जनसेवायै
यत्र च क्रीडायै वनराजः
धेनुर्माता परमशिवा
नित्यं प्रात: शिवगुणगानं
दीपनुति: खलु शत्रुपरा ॥१॥
भाग्यविधायि निजार्जितकर्म
यत्र श्रम: श्रियमर्जयति
त्यागधनानां तपोनिधीनां
गाथां गायति कविवाणी
गङ्गाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी ॥२॥
यत्र हि नैव स्वदेहविमोह
युद्धरतानां वीराणाम्
यत्र हि कृषकः कार्यरतः सन्
पश्यति जीवनसाफल्यम्
जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिवपदसेवा ॥३॥
- जनार्दन हेगडे