अग्निं स्तोकमिवात्मानं ...

विकिसूक्तिः तः

सुभाषितम्

अग्निं स्तोकमिवात्मानं संधुक्षयति यो नरः।
स वर्धमानो ग्रसते महान्तमपि संचयम्॥

महाभारतम् आदिपर्व १५३-१०४

agniṃ stokamivātmānaṃ saṃdhukṣayati yo naraḥ।
savardhamānograsate mahāntamapi saṃcayam॥'

पदच्छेदः

अग्निं, स्तोकम्, इव, आत्मानं, संधुक्षयति, यः, नरः, सः,वर्धमानः, ग्रसते, महान्तम्, अपि, संचयम् ।


तात्पर्यम्

यथा स्तोकः अर्थात् अल्पोऽपि अग्निः तीव्ररूपेण प्रदीप्तः महद्वितानमपि ज्वालयति तद्वत् यदि कश्चिन्नरः सामान्यः भूत्वापि अभिवृद्धेः चेष्टाः निरन्तरं करोति तर्हि सः अवश्यमेव महदैश्वर्यं संगृह्य बलिष्ठः जायते ।


आङ्ग्लार्थः

A man who blows himself into a flame as one blows fire into flame, entangles, when he grows, even a great pile.