अग्निकार्यात् परिभ्रष्टाः...

विकिसूक्तिः तः

सुभाषितम्

अग्निकार्यात् परिभ्रष्टाः सन्ध्योपासनवर्जिताः।
वेदं चैवानधीयानाः सर्वे ते वृषलाः स्मृताः॥

पराशरस्मृतिः १२/२९

agnikāryāt paribhraṣṭāḥ, sandhyopāsanavarjitāḥ।
vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ॥

पदच्छेदः

अग्निकार्यात्, परिभ्रष्टाः, सन्ध्योपासनवर्जिताः, वेदं, च, एव, अनधीयानाः, सर्वे, ते, वृषलाः, स्मृताः।


तात्पर्यम्

ये च जनाः अग्निकार्यम् अर्थात् यज्ञयागादिकं त्यक्तवन्तः, ये च सन्ध्यावन्दनम् ईश्वरोपासनञ्च त्यक्तवन्तः ये च वेदाध्ययनं न कृतवन्तः ते सर्वेऽपि वृषलाः वर्तन्ते । धर्मभ्रष्टाः भवन्ति इत्यर्थः ।


आङ्ग्लार्थः

And all those who have abandoned the rituals of fire, that is, sacrifices and offerings, those who have abandoned the evening worship and the worship of God, and those who have not studied the Vedas, are all śūdras. This means that they become apostates.