प्रबुद्धात्मन् गाय गीतम्...

विकिसूक्तिः तः

प्रबुद्धात्मन् गाय गीतम्...


प्रबुद्धात्मन् गाय गीतं राष्ट्रभक्तिनिबोधकम्
श्रावयन् जागरय लोकं निश्चलं जडतावृतम्
राष्ट्रमेतद् राजतां, संवर्धतामभिवर्धताम्
विश्वगुरुरिति मानितं सत् जगति सकले शोभताम् ॥

धवलचरितं स्फटिकविमलं राष्ट्रमिदमतिविश्रुतम्
इतश्चोत्था तत्त्वगङ्गा जगदपावयदनुदिनम्
यो हि विज्ञानादिविविधज्ञानदक्षो गुरुरभूत्
देश एष स्तूयतां, निध्यायतां पुनरर्च्यताम् ॥

मोहमायाजालतन्तून् छिन्धि सुज्ञानासिना
क्रोधकामान् मत्सरादीन् मर्दय त्वं निर्दयम्
आत्मबलमासाद्य दृढतामेत्य याहि निरन्तरम्
मातृभूस्समुपास्यतां, सा संस्कृता गीस्सेव्यताम् ॥

सर्वलोकहितैषिता समचित्तता भवतो भवेत्
अन्तरायान् ध्वंसयन् त्वं दोर्बलं सञ्चिनु महत्
धर्मनिष्ठ: कर्मनिरतो जनहितं कुरु सन्ततम्
परहितं सञ्चिन्त्यतां, ननु दीनजनता सेव्यताम् ॥


- जनार्दन हेगडे