कान्ताकटाक्षविशिखा...

विकिसूक्तिः तः

सुभाषितम्

कान्ताकटाक्षविशिखा न लुनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुपातम् ।
कर्षन्ति भूरि विषयाश्च न लोभपाशात्
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥

kāntākaṭākṣaviśikhā na lunanti yasya
cittaṁ na nirdahati kōpakr̥śānupātam ।
karṣanti bhūri viṣayāśca na lōbhapāśāt
lōkatrayaṁ jayati kr̥tsnamidaṁ sa dhīraḥ ॥

पदच्छेदः

कान्ताकटाक्षविशिखा, न, लुनन्ति, यस्य, चित्तं, न, निर्दहति, कोपकृशानुपातम्, कर्षन्ति, भूरि, विषयाः, च, न, लोभपाशात्, लोकत्रयं, जयति, कृत्स्नं, इदं, सः, धीरः ।


तात्पर्यम्

यस्य चित्तं प्रियायाः अतितीक्ष्णा दृष्टिः न लुनाति, कोपाग्निश्च न दहति, लोभवशात् यस्य इन्द्रियाणि विषयेषु आसक्तानि न भवन्ति स एव धीरः लोकत्रयमपि जयति ।


आङ्ग्लार्थः

He indeed is brave whose mind is not severed by the arrows of his beloved’s glances and is not burnt in the fire of anger, and who will not be tempted by the snares of greed or heavy sensual attractions. He will conquer the three worlds.

"https://sa.wikiquote.org/w/index.php?title=कान्ताकटाक्षविशिखा...&oldid=16246" इत्यस्माद् प्रतिप्राप्तम्