काकुत्स्थस्य दशाननो यदि...

विकिसूक्तिः तः

सुभाषितम्

काकुत्स्थस्य दशाननो न कृतवान्दारापहारं यदि
क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः ।
पार्थस्यापि पराभवं यदि रिपुर्नाधात्क्व तादृक्पणो
नीयन्ते रिपुभिः समुन्नतिपदं प्रायं परं मानिनः ॥

kākutsthasya daśānano na kṛtavāndārāpahāraṃ yadi
kvāmbhodhiḥ kva ca setubandhaghaṭanā kvottīrya laṅkājayaḥ ।
pārthasyāpi parābhavaṃ yadi ripurnādhātkva tādṛktapo
nīyante ripubhiḥ samunnatipadaṃ prāyaḥ paraṃ māninaḥ

पदच्छेदः

काकुत्स्थस्य, दशाननः, न, कृतवान्, दारापहारं, यदि, क्व, अम्भोधिः, क्व, च, एतुबन्धघटना, क्व, उत्तीर्य, लङ्काजयः, पार्थस्य, अपि, पराभवं, यदि, रिपुः, न, आधात्, क्व, तादृक्, पणः, नीयन्ते, रिपुभिः, समुन्नतिपदं, प्रायः, परं, मानिनः ।


तात्पर्यम्

यदि रावणः रामस्य पत्नीं सीतां न अपहृअतवान् स्यात्, तर्हि कथं वा समुद्रस्य सेतुबन्धनम् अभविष्यत्? कथं वा हनूमतः समुद्रोल्लङ्घनम्, कथं वा समुद्रम् उत्तीर्य रावणवधः अभविष्यत्? तथैव यदि दुर्योधनादयः अक्षक्रीडायां तादृशं पणं न अस्थापयिष्यन्, तर्हि अर्जुनस्य युद्धे जयं कथं वा अभविष्यत्? एवं शत्रवः अपि मानिनाम् औन्नत्यप्राप्तये कारणीभूताः भवन्ति ।