हयाटाख्वाटसिंहाटा...

विकिसूक्तिः तः


चित्रकाव्यम्

हयाटाख्वाटसिंहाटाजाटगोटास्सशक्तयः।
खाटपाटसरोजाटवारणाटा अवन्तु वः॥


वैशिष्ट्यम्

टवर्णं बहुधा उपयुज्य रचिते अस्मिन् श्लोके कश्चन विशिष्टः आसक्तिकरः शब्दप्रभावः अनुभूयते ।


अर्थः

हयेन अटति इति हयाटः वायुः अथवा सूर्यः, आख्वाटः गणपतिः, सिंहाटा दुर्गा, अजाटा अग्निः, गोटः शिवः एते शक्तिसहिताः, खे अटति इति खाटः पक्षी, खाटान् पाति इति खाटपः गरुडः, खाटपेन अटति इति खाटपाटः विष्णुः, सरोजाटः ब्रह्मा, वारणाटः इन्द्रः एते युष्मान् अवन्तु ।



"https://sa.wikiquote.org/w/index.php?title=हयाटाख्वाटसिंहाटा...&oldid=17105" इत्यस्माद् प्रतिप्राप्तम्